Saraswati Saharsranama Stotram in Hindi – श्री सरस्वती सहस्रनाम स्तोत्रम्
Saraswati Saharsranama Stotram in Hindi – श्री सरस्वती सहस्रनाम स्तोत्रम् ध्यानम् । श्रीमच्चन्दनचर्चितोज्ज्वलवपुः शुक्लाम्बरा मल्लिका- मालालालित कुन्तला प्रविलसन्मुक्तावलीशोभना । सर्वज्ञाननिधानपुस्तकधरा रुद्राक्षमालाङ्किता वाग्देवी वदनाम्बुजे वसतु मे त्रैलोक्यमाता शुभा ॥ श्री नारद उवाच भगवन्परमेशान सर्वलोकैकनायक । कथं सरस्वती साक्षात्प्रसन्ना परमेष्ठिनः ॥ कथं देव्या महावाण्यास्सतत्प्राप सुदुर्लभम् । एतन्मे वद तत्त्वेन महायोगीश्वर प्रभो ॥ श्री सनत्कुमार उवाच साधु पृष्टं त्वया ब्रह्मन् गुह्याद्गुह्यमनुत्तमम् । मयानुगोपितं यत्नादिदानीं सत्प्रकाश्यते ॥ पुरा पितामहं दृष्ट्वा जगत्स्थावरजङ्गमम् । निर्विकारं निराभासं स्तम्भीभूतमचेतसम् ॥ सृष्ट्वा त्रैलोक्यमखिलं वागभावात्तथाविधम् । आधिक्याभावतः स्वस्य परमेष्ठी जगद्गुरुः ॥ दिव्यवर्षायुतं तेन तपो दुष्करमुत्तमम् । ततः कदाचित्सञ्जाता वाणी सर्वार्थशोभिता ॥ अहमस्मि महाविद्या सर्ववाचामधीश्वरी । मम नाम्नां सहस्रं तु उपदेक्ष्याम्यनुत्तमम् ॥ अनेन संस्तुता नित्यं पत्नी तव भवाम्यहम् । त्वया सृष्टं जगत्सर्वं वाणीयुक्तं भविष्यति ॥ इदं रहस्यं परमं ...